SanskritVani
ननु 'अव्यक्तानुकरणस्यात' इति पररूपं 'पटत् इति पटितीत्यादौ 'अलोऽन्त्यस्य' इत्यन्त्यस्य प्राप्नोतीत्यत आह -
नानर्थकेऽलोन्त्यविधिरनभ्यासविकारे।१०५।
अनभ्यासेत्युक्तेः'बिभर्ती'त्यादौ 'भृञामित्' इत्याद्यन्त्यस्यैवाभ्यासोऽनर्थकोऽर्थावृत्त्यभावात्, किन्तु उत्तरखण्ड एवार्थवानिति अन्यत्र निरूपितम्। एषा 'अलोऽन्त्यात्' सूत्रे भाष्ये स्पष्टा। फलानामन्यथासिद्धिकरणेन प्रत्याख्याता चेति तत एवावधार्यताम्॥१०५॥
कामाख्या
नानर्थकेति। उत्तरखण्डएवेति। अत एवास्तेर्द्वित्वे परस्य भूभावे पूर्वस्य श्रवणं प्राप्नोतीति भाष्यं संगच्छते। फलानामन्यथेति। तस्य तु वेत्येव सिद्धेऽन्त्यस्य तु वेति करणादव्यक्तानुकरणस्येत्यत्रालोन्त्यपरिभाषाऽप्रवृत्तिज्ञानात्। 'हलि लोप' इत्यादौ 'अनाप्यक' इत्यतोऽन्पदमनुवर्त्य षष्ठ्या विपरिणामेनेदं सम्बन्धिनोऽनोऽन्त्यनकारस्यैव लोपे, पररूपे, दीर्घे च आभ्यामिति सिद्धमित्यादिनेति बोध्यम्। अत्र च ज्ञापकम् 'आम्रेडितस्यवे'ति न्यासेनैव सिद्धौ 'नाम्रेडितस्यान्त्यस्य तु वे'ति सूत्रमेव। अनभ्यासविकार इत्यंशे 'अर्तिपिपर्त्योश्चे'ति निर्देशो ज्ञापक इति बोध्यः॥१०५॥
नास्ति।