SanskritVani
ननु 'कुटीर' इत्यादौ स्वार्थिकत्वात् स्वार्थिकानां प्रकृतितो लिङ्गवचनानुवृत्तेर्न्यायप्राप्तत्वात् पुंस्त्वानुपपत्तिः, 'अप्कल्पम्' इत्यत्र नपुंसकैकवचनयोरनुपपत्तिश्चेत्यत आह –
क्वचित् स्वार्थिकाः प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते।८४।
'णचः स्त्रियामि'ति सूत्रे स्त्रियामित्युक्तिरस्या ज्ञापिका। अन्यथा कर्मव्यतिहारे 'णच् स्त्रियामि'ति स्त्रियामेव विधानात् किं तेन? स्पष्टा चेयं बहुज्विधायके भाष्ये॥८४॥
कामाख्या
स्वार्थिकत्वादिति। अनिर्दिष्टाः प्रत्ययाः स्वार्थे भवन्तीति न्यायात्। प्रकृतितः। षष्ठ्यन्तादाद्यादित्वात्तसिः। न्यायेति। यः प्रत्ययो यादृशेऽर्थे भवति तदन्तस्य तल्लिङ्गवचनकत्वमिति न्यायेन। अप्कल्पमिति। ईषन्न्यूना आप इति विग्रहे ईषदसमाप्तिविशिष्टे स्वार्थे कल्पप्। क्वचिदिति। प्रत्यय इति महासंज्ञया स्वीयमर्थं प्रत्याययतीति प्रत्यय इति भाष्ये स्वीयपदोपादानेनन च प्रत्ययस्यार्थवत्वेनावश्यमेव भवितव्यम्। यत्र तु शास्त्रेण कोऽप्यर्थो विशिष्य नोच्यते तत्रार्थवत्वजिज्ञासायामुपस्थितत्वात् प्रकृत्यर्थनैवार्थवत्ता वक्तव्या। तदर्थविशेषणतयोपस्थितलिङ्गसंख्यानुवर्तनं स्वार्थिकानामौत्सर्गिकम्। सति गमके प्रकृत्यर्थलिङ्गसंख्याभिन्नलिङ्गसंख्याबोधकत्वम् अत एव क्वचिदित्युक्तम्। अतिवर्तन्ते। अतिवर्तनं त्यागः। एकदेशानुमत्या परिभाषाज्ञापकमाह णचःस्त्रियामिति। अन्यत् सुगमम्॥८४॥
नास्ति