व्यञ्जनास्वरूपप्रतिपादनम्)
ननु व्यञ्जना कः पदार्थः? उच्यते — मुख्यार्थबाधनिरपेक्षबोधजनको मुख्यार्थसम्बद्धासम्बद्धसाधारणः प्रसिद्धाप्रसिद्धार्थविषयको वक्त्रादिवैशिष्ट्यज्ञानप्रतिभाद्युद्बुद्धः संस्कारविशेषो व्यञ्जना ।
(वैयाकरणानां कृते व्यञ्जनाया आवश्यकता)
अत एव निपातानां द्योतकत्वं स्फोटस्य व्यङ्ग्यता च हर्यादिभिरुक्ता । द्योतकत्वं च स्वसमभिव्याहृतपदनिष्ठशक्तिव्यञ्जकत्वमिति, वैयाकरणानामप्येतत्स्वीकार आवश्यकः । एषा च शब्दतदर्थपदपदैकदेशवर्णरचनाचेष्टादिषु सर्वत्र तथैवानुभवात् । वक्त्रादिवैशिष्ट्यज्ञानं च व्यङ्ग्यविशेषबोधे सहकारीति न सर्वत्र तदपेक्षेत्यन्यत्र विस्तरः ।
(तार्किकमतखण्डनम्)
यत्तु तार्किकाः लक्षणयैव गतार्था व्यञ्जनेति न सा स्वीकार्येत्याहुः, तन्न । लक्षणाया मुख्यार्थबाधपूर्वकलक्ष्यार्थबोधकत्वात् । मुख्यार्थसम्बद्धार्थस्यैव लक्षणाया बोधकत्वात् । व्यञ्जनाया अतथात्वेन तदनन्तर्भावाच्चेति दिक् ।