प्रकृतान्वयबोधाननुकूलपदाव्यवधानमासत्तिः । गिरिरग्निमानित्यासन्नम् । अनासन्नं च गिरिर्भुक्तमग्निमान्देवदत्तेनेति । आसत्तिरपि मन्दबुद्धेरविलम्बेन शाब्दबोधे कारणम् । अमन्दबुद्धेस्त्वासत्त्यभावेऽपि पदार्थोपस्थितावाकाङ्क्षादितोऽविलम्बेनैव बोधो भवतीति न बोधे तस्याः कारणत्वम् । ध्वनितं चेदं न पदान्तसूत्रे भाष्ये । स्थाल्यामोदनं पचतीत्यादौ स्थाल्यामित्यस्यौदनपदेन व्यवधानेऽपि प्रकृतान्वयबोधानुकूलत्वादासन्नत्वाक्षतिः ।