Logo SanskritVani

धात्वर्थविचारः

 

(यत्न आख्यातार्थ इति तार्किकमतस्य निःसारता)

 

अथ सकलशब्दमूलभूतत्वाद्धात्वर्थो निरूप्यते । तत्र फलानुकूलो यत्नसहितो व्यापारो धात्वर्थः । फलत्वं च तद्धात्वर्थजन्यत्वे सति कर्तृप्रत्ययसमभिव्याहारे तद्धात्वर्थनिष्ठविशेष्यतानिरूपितप्रकारतावत्वम् ।

विभागजन्यसंयोगादिरूपे पतत्यादिधात्वर्थे विभागसंयोगयोः फलत्ववारणायोभयम् । कर्मप्रत्ययसमभिव्याहारे तु फलस्य विशेष्यता । व्यापारत्वं च धात्वर्थफलजनकत्वे सति धातुवाच्यत्वम् । अनुकूलत्वं संसर्गः । अनुकूलत्वं च फलनिष्ठजन्यतानिरूपितजनकत्वम् ।

(भावप्रधानमिति निरुक्तव्याख्या)

 

भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि ।

इति निरुक्तोक्तेर्व्यापारमुख्यविशेष्यको बोधः । तत्र तिङ्वाच्यं सङ्ख्याविशिष्टकारकं कालश्च व्यापारविशेषणम् ।

(फलव्यापारयोर्विशिष्टे शक्तिः)

 

परे तु फलव्यापारयोर्द्धातोः पृथक् शक्तावुद्देश्यविधेयभावेनान्वयापत्तिस्तयोः स्यात् । पृथगुपस्थितयोस्तथा अन्वयस्यौत्सर्गिकत्वात् । किञ्चैकपदे व्युत्पत्तिद्वयकल्पनेऽति गौरवम् ।

तथाहि- फलविशेषणकव्यापारबोधे कर्तृप्रत्ययसमभिव्याहृतधातुजन्योप स्थितिः कारणं, व्यापारविशेषणकफलबोधे कर्मप्रत्ययसमभिव्याहृतधातुजन्योपस्थितिः कारणमिति कार्यकारणभावद्वयकल्पनं धातोरर्थद्वये शक्तिद्वयकल्पनं धातोर्बोधजनकत्वसम्बन्धद्वयकल्पनं चातिगौरवम् । तस्मात्फलावच्छिन्ने व्यापारे व्यापारावच्छिन्ने फले च धातूनां शक्तिः कर्तृकर्मार्थकतत्तत्प्रत्ययसमभिव्याहारश्च तत्तद् बोधे नियामकं इत्याहुः ।

(मीमांसकमते धातुप्रत्ययार्थौ)

 

यत्तु मीमांसकाः फलं धात्वर्थो व्यापारः प्रत्ययार्थ इति वदन्ति; तन्न । लः कर्मणीत्यादिसूत्रविरोधापत्तेः । न हि तेन व्यापारस्य प्रत्ययार्थता लभ्यते ।

किञ्च पचति पक्ष्यति पक्ववानित्यादौ फूत्कारादिप्रतीतये तत्रानेकप्रत्ययानां शक्तिल्पनापेक्ष्यैकस्य धातोरेव शक्तिपल्पनोचिता ।

किञ्च फूत्कारादेः प्रत्ययार्थत्वे गच्छतीत्यादौ तत्प्रतीतिवारणाय तद्बोधे पचिसमभिव्याहारस्यापि कारणत्वकल्पनेऽतिगौरवम् ।

किञ्च सकर्मकाकर्मकव्यवहारोच्छेदापत्तिः । न च प्रत्ययार्थव्यापारव्यधिकरणफलवाचकत्वं सकर्मकत्वम्, तन्मते तत्समानाधिकरणफलवाचकत्वमकर्मकत्वं च प्रत्ययार्थव्यापाराश्रयत्वं कर्तृत्वम्, घटं भावयतीत्यादौ णिजर्थव्यापारव्यधिकरणफलाश्रयत्वेन घटादेः कर्मत्वमिति वाच्यम् । अभिधानानभिधानव्यवस्थोच्छेदापत्तेः । न च व्यापारेणाऽऽश्रयाऽऽक्षेपात्कर्तुरभिधानम् । कर्माख्याते च प्रधानेन फलेन स्वाश्रयाक्षेपात्कर्मणोऽभिधानमिति वाच्यम् । जातिशक्तिवादे जात्याक्षिप्तव्यक्तेरिवाश्रयप्राधान्यापत्तौ 'क्रियाप्रधानमाख्यातम्' इति यास्कवचो विरोधापत्तेः ।

किञ्च फलस्य धातुना तदाश्रयस्य चाक्षेपेणैव लाभसम्भवेन लः कर्मणीत्यस्य वैयर्थ्यापत्तेः । कर्मकर्तृकृतां कारकभावनोभयवाचकत्वे गौरवाच्च ।

किञ्च भावविहितघञादीनां व्यापरावाचकत्वे ग्रामो गमनवानित्याद्यापत्तिः तद्वाचकत्वे तेनापि स्वाश्रयक्षेपे कर्तुरभिधानापत्तिः ।

किञ्च गुरुः शिष्याभ्यां पाचयतीत्यादौ हेतुमति चेति सूत्रबलात् प्रयोजकमव्यापारस्य णिजर्थत्वे स्थिते प्रयोज्यव्यापार आख्यातार्थो वाच्यः । एवञ्च सङ्ख्यायाः स्ववाचकाख्यातार्थव्यापारेऽन्वयिन्येवाऽन्वयाच्छिष्याभ्यामिति द्विचनानापत्तिः । पाचयतीत्येकवचनानापत्तिश्च । गुरोरनभिधानेन तत्र प्रथमाया अनापत्तेश्च शिष्यशब्दात्तदापत्तेश्चेत्यन्यत्र विस्तरः ।

सर्वकारकान्वयितावच्छेदकधर्मवती क्रिया ।

तदाह —

(क्रियालक्षणम्)

 

यावत्सिद्धमसिद्धं वा साध्यत्वेनाभिधीयते ।

आश्रितक्रमरूपत्वात्सा क्रियेत्यभिधीयते ॥

गुणभूतैरवयवैः समूहः क्रमजन्मनाम् ।

बुद्ध्या प्रकल्पिताभेदः क्रियेति व्यपदिश्यते ॥

इति भूवादिसूत्रस्थभाष्यार्थप्रतिपादकहरिग्रन्थात् । क्रमजन्मनां व्यपाराणां समूहं प्रति गुणभूतैरवयवैर्युक्तः सङ्कलनात्मिकयैकत्वबुद्ध्या प्रकल्पिताऽभेदरूपः समूहः क्रियेति व्यवह्रियत इति द्वतीयकारिकार्थः । अत्राऽवयवाश्रयं पौर्वापर्यं समुदायाश्रयमेकत्वम् । क्षणनश्वराणां वस्तुमूतसमुदायाभावात् बुद्ध्येत्युक्तम् । पचति पक्ष्यतीत्यादावसिद्धं अपाक्षीदित्यादौ सिद्धम् । सिद्धमसिद्धं वा साध्यत्वेनाभिधीयमानं क्रिया । आश्रितेति योगदर्शनं कृतम् अवयवानां क्रमेणोत्पत्त्या । अतएवाश्रिताक्रमरूपा क्रियेत्यादिप्रथमकारिकार्थः । एकैकावयवेऽपि समूहरूपारोपादधिश्रयणकालेऽपि पचतीति व्यवहारः । तदुक्तम् —

एकदेशे समूहे वा व्यापाराणां पचादयः ।

स्वभावतः प्रवर्तन्ते तुल्यरूपं समाश्रिताः ॥इति॥

(सिद्धसाध्यक्रियालक्षणम्)

 

अत्र केचित् — सिद्धत्वं क्रियान्तरकाङ्क्षोत्थापकतावच्छेदकवैजात्यवत्त्वे सति कारकत्वेन क्रियान्वयित्वे सति कारकान्तरान्वयायोगित्वम् । साध्यत्वं च क्रियान्तराकाङ्क्षानुत्थापकतावच्छेदकं सत् कारकान्तरावययोग्यतावच्छेदकरूपवत्त्वम् ।

हिरुगाद्यव्ययानां साध्यत्वाभावेऽपि क्रियावाचकत्वव्याहारस्तु क्रियामात्र विशेषणत्वात् । तत्र सिद्धत्वं पाक इत्यादौ घञादिवाच्यम् । साध्यत्वं तु सर्वत्रैव धातुप्रतिपाद्यम् ।

ननु हरिं नमेच्चेत्सुखं यायात् इत्यत्रापि क्रियान्तराकङ्क्षत्वेन सिद्धत्वमस्ति इति चेन्न । चेच्छब्दसमभिव्याहारेणाकाङ्क्षोत्थापनात् इत्याहुः । वस्तुतः साध्यत्वं निष्पाद्यत्वमेव तद्रूपेणैव बोधः । स्पष्टं चेदमुपपदमतिङित्यादौ भाष्ये । ननु घटं करोतीत्यादौ द्रव्यस्यापि साध्यत्वेन प्रतीतिरिति चेन्न, करोतिपदादिसमभिव्याहारात्तथा प्रत्ययेऽपि स्वतो घटादिपदाद् द्रव्यस्य सिद्धत्वेनैव प्रतीतेः ।

(अस्त्यादिधात्वर्थविचारः)

 

अस्ति — भवति — वर्तते — विद्यतीनामर्थः सत्ता । सा चानेककालस्थायिनीति कालगतपौर्वापर्येण क्रमवतीति तस्याः क्रियात्वम्, सत्तेहात्मधारणम् ।

(सकर्मकत्वाकर्मकत्वनिरूपणम्)

 

सकर्मकत्वञच फलव्यधिकरणव्यापारवाचकत्वं फलसमानाधिकरणव्यापारवाचकत्वमकर्मकत्वम् । क्वचित्तु फलांशाभावादकर्मकत्वम् । यथाऽस्त्यादौ केवलं सत्तादिरेवार्थः । फलांशस्य सूक्ष्मदृष्ट्याप्यप्रतीतेः । उत्पन्नस्य सत्त्वस्य स्वरूपधारणरूपां सत्तामचष्टेऽस्त्यादिरिति निरुक्तोक्तेश्च ।

वस्तुतस्तु शब्दशास्त्रीयकर्मसंज्ञकार्थान्वय्यर्थकत्वं सकर्मकत्वं । तदनन्वय्यर्थकत्वमकर्मकत्वम् । अधिशीङ्स्थेति भूमय इत्याधारस्य कर्मत्वम् । तेन 'अध्यासिता भूमय' इत्यादिसिद्धिः । अन्वयश्च पृथग्बुद्धेन संसर्गरूपः । अन्वयपदस्य तत्रैव व्युत्पत्तेः । तेन जीवतीत्यादौ न दोषः । तत्र प्राणादिरूपकर्मणो धारणार्थधात्वर्थात्पृथगबोधात् इति 'सुप आत्मन इति' सूत्रे स्पष्टम् ।

(ज्ञाधात्वर्थविचारः)

 

जानातेर्विषयतया ज्ञानं फलम् । आत्मनः संयोगो व्यापारः । अतएव मनो जानातीत्पपद्यते । आत्मात्रान्तः करणं मनोऽपि तद्वृत्तिविशेषरूपम् । आत्मा आत्मानं जानातीत्यादौ अन्तः करणावच्छिन्नः कर्त्ता शरीरावच्छिन्नः कर्मेति कर्मत्वत्सूत्रे भाष्ये स्पष्टम् ।

यत्तु आवरणभङ्गो विषयता वा फलम्, व्यापारस्तु ज्ञानमेवेति; तन्न । कर्मस्थक्रियाकत्वापत्तेः । तद्वयवस्था चेत्थमुक्ता हरिणा —

विशेषदर्शनं यत्र क्रिया तत्र व्यवस्थिता ।

क्रियाव्यवस्था त्वन्येषां शब्दैरेव प्रकल्पिता ॥इति॥

अस्यार्थः — यत्र कर्मणि कर्तरि वा क्रियाकृतो विशेषः कश्चिद् दृश्यते तत्र क्रिया व्यवस्थितेत्युच्यते । नन्वेवं पच्यादिकर्तर्यपि श्रमादिरूपविशेषस्य दर्शनादिदमयुक्तम् । किञ्च चिन्तयति पश्यतीत्यादीनां कर्तृस्थभावकत्वानुपपत्तिः । कर्तरि क्रिया कृतविशेषाभावात् । अत आह — अन्येषामिति । मत इति शेषः । यत्र कर्तृकर्मसाधारणरूपं फलं शब्देन प्रतिपाद्यते, सकर्तृस्थभावकः, यथा पश्यति घटं, ग्रामं गच्छति, हसतीत्यादौ । तत्र विषयतासमवायाभ्यां ज्ञानमुभयनिष्ठं संयोगोभयनिष्ठश्च । एवं हसोऽपि, नहि विषयतावरणमङ्गावेवम् । यत्र कर्तृवृत्तिकर्मस्थलं सकर्मस्थभावकः, यथा भिनत्तीत्यादौ । नहि द्वधाभवनादि कथमपि कर्तृनिष्ठमिति हेलाराजः । तथा चावरणभङ्गस्य विषयतायाश्च कर्ममात्रनिष्ठत्वाज्जानातेरपि कर्मस्थक्रियकत्वापत्तिरित्यलम् ।

(इष-पत्-कृञ्-धात्वर्थविचारः)

 

इच्छतेरिच्छानुकूलं ज्ञानमर्थः । अतीतानागतयोरपि बुद्ध्युपारोहात् फलशालित्वम् । पतिर्गमिवत्सकर्मकः । नरकं पतित इत्यादिप्रयोगात् । विभातजन्यसंयोगमात्रपरत्वेऽकर्मक इति ।

कृञ उत्पत्तिव्यधिकरणस्तदनुकूलो व्यापारोऽर्थः फलमात्रार्थकत्वेऽकर्मकत्वापत्तिर्यतिवत् । किञ्च कर्मस्थभावकत्वाभावात्कर्मकर्तरि यगाद्यनापत्तिः । कृतिरित्यादौधातुनामनेकार्थत्वाद् यत्नमात्रे वृत्तिः ।

यद्वा यत्नकृतिशब्दयोरपि व्यापारसामान्यवाचितैव अत एव स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति 'कारके' इति सूत्रे भाष्ये उक्तमित्यलम् ।

(तार्किकमतेन धातुप्रत्ययार्थान्वयनिरूपणम्)

 

यत्तु तार्किकाः — फलव्यापारौ धात्वर्थः । लकाराणां कृतावेव शक्तिर्लाघवात् न तु कर्तरि, कृतिमतः कर्तृत्वेन तत्र शक्तौ गौरवात् प्रथमान्तपदेनैव तल्लाभाच्च । आख्यातार्थे धात्वर्थो विशेषणम्, प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्यैव प्राधान्यात् प्रथमान्तार्थे आख्यातार्थो विशेषणम् । अनुकूलत्वमाश्रयत्वञ्च संसर्गः । तथा च चैत्रः पचतीत्याखौ विक्लित्त्यनुकूलव्यापारानुकूलकृतिमांश्चैत्र इति बोधः । रथो गच्छतीत्यादौ रथस्याचेतनत्वात् यत्नशून्यत्वेन आश्रयत्वेन वाख्यातस्य लक्षणेत्याहुः ।

(धात्वर्थविषये तार्किकमतखण्डनम्)

 

तन्न, युष्मदस्मदोर्लकारेण सामानाधाकरण्याभावात् पुरुषव्यवस्थानापत्तेः । पचन्तं चैत्रं पश्य, पचते देवदत्ताय देहीत्यादौ शतृशानजादीनामपि तिबादिवल्लादेशाविशेषेण तेभ्यः कृतिमात्रबोधापत्तेश्च । न चेष्टापत्तिराश्रयाश्रयिभावेन कर्मणि सम्प्रदाने च कृतेरन्वयात् इति वाच्यम् । नामार्थयोरभेदान्वयो व्युत्पन्न इति व्युत्पत्तिभङ्गापत्तेः ।

ननु फलमुखगौरवं न दोषाय इति न्यायेन शत्रादीनां कर्तरी शक्तिः तिबादीनां कृतावेव इति चेन्न । स्थान्येव वाचको लाघवात् आदेशानां बहुत्वेन तेषां वाचकत्वे गौरवमिति हि तव मतम् । एवं च तिबादीनां शत्रादीनां च स्थान्यर्थस्मारकतया लिपिस्थानीयन्वं बोधकस्तु लकार एव । स च शत्राद्यन्ते कर्तरी शक्तस्तिबाद्यन्ते कथं कृतिं बोधयेत् । 'अन्यायश्चानेकार्थत्वम्' इति न्यायात् ।

ननु लः कर्मणीति सूत्रे कर्तृकर्मपदे भावप्रधाने, कर्तृत्वं कृतिः कर्मत्वं कृतिः कर्मत्वं फलं, तयोः शक्तौ सूत्रस्वरसः । कर्मप्रत्ययान्ते पच्यते ओदनो देवदत्तेनेत्यादौ देवदत्तनिष्ठकृतिजन्यव्यापारजन्यविक्लित्तिमान् ओदन इति बोधः । कर्तरि कृदिति सूत्रे तु कर्तरीति पदस्य धर्मिप्रधानात्वात् कृत्याश्रये शत्रादीनां शक्तिरिति चेत्, कर्तरि कृदिति सूत्रे यत्कर्तृग्रहणं तस्यैव लः कर्मणीति सूत्रे चकारानुकृष्टत्वेन भावप्रधानात्वे सूत्रस्वरसाभावात् शत्रादीनां 'स्थान्यर्थाभिधानसमर्थस्यैवादेशत्वम्' इति न्यायेन स्थान्यर्थेन निराकाङ्क्षत्वादाकाङ्क्षितविधानं ज्याय इति न्यायात् कर्तरि कृदित्यनेन शक्तिग्रहाभावाच्च, अन्यथा देवदत्तेन शय्यमाने आस्यमाने च यज्ञदत्तो गत इति भावे शानजनापत्तेः ।

ननु नामार्थयोरभेदान्वयानुरोधात् शतृशानजादीनां कर्तरि शक्तिरिति चेन्न । पचतिकल्पं पचतिरूपं देवदत्त इत्याद्यनुरोधेन तिङ्क्ष्वपि कर्तुरिव वाच्यत्वौचित्यात् ।

किञ्च कृतिवाच्यत्वेन रथो गच्छतीत्यादौ आश्रये लक्षणास्वीकारे गौरवापत्तिः । अभिहितत्वानभिहितत्वव्यवस्थोच्छेदापत्तिश्च । न च 'अनभिहिते' इति सूत्रस्यानभिहितसङ्ख्याक इत्यर्थवर्णनमिति वाच्यम् । कृत्तद्धितसमासैः सङ्ख्याभिधानस्या प्रसिद्धत्वात् ।

किञ्च यत्नोऽपि व्यापारसामान्यं धातुत एव लभ्यते, स्थालीस्थे यत्ने पचिना कथ्यमाने स्थाली पचतीति 'कारक' इत्यधिकारसूत्रे भाष्यप्रयोगात् अनन्यलभ्यस्यैव शब्दार्थत्वात् कृतौ शक्तेरुक्तिसम्भव एव नेत्यलम् ।

(आख्यातार्थे धात्वर्थस्य विशेषणत्वे कार्यकारणाभावः)

 

आख्यातार्थे धात्वर्थो विशेषणमित्यस्य निराकरणमवशिष्यते । तथाहि —

प्रकृत्यर्थप्रत्ययार्थयोः सहार्थत्वे प्रत्ययार्थस्ययैव प्राधान्यमित्युत्सर्गः । पाचक औपगव इत्युदाहरणं, पाकक्रियाश्रयः उपगुसम्बन्ध्यभिन्नापत्यमिति प्रत्ययार्थस्य प्राधान्यं तयोरर्थे । तत्रापि प्रत्ययवाच्यस्यैव प्राधान्यं, द्योतकस्य त्वप्राधान्यमेव, यथा अजा इत्यत्र स्त्रीत्वविशिष्टपशुविशेष इति बोधः । तस्योत्सर्गस्य 'भावप्रधानमाख्यातं सत्त्वप्रधानानि नामानि' इति यास्कवचनमपवादः । तेनाख्याते तिङन्ते क्रियाया एव प्राधान्यं शाब्दबोधेन प्रत्ययार्थस्येति बोध्यम् ।

यत्तु आख्यातपदेन तिङ्मात्रग्रहणाद्भावप्रधानमाख्यातमित्यत्र षष्ठीतत्पुरुषाश्रयणात् प्रत्ययार्थप्राधान्यमेव फलतीति, तन्न । 'आख्यातमाख्यातेन क्रियासातत्ये' इति सूत्रे आख्यातपदेन तिङन्तस्यैव ग्रहणात् । उत्सर्गेणैव निर्वाहे यास्ककृतापवादवचनवैयर्थ्यापत्तेश्च । तस्माद्भावप्रधानमित्यत्र बहुव्रीहिः । आख्यातपदेन तिङन्तस्यैव ग्रहणमित्यलम् ।

(प्रथमान्तार्थमुख्यविशेष्यकबोधस्य खण्डनम्)

 

प्रथमान्तार्थमुख्यविशेष्यको बोधस्तार्किकमते इति निराकर्तुमवशिष्यते । तथाहि — शाब्दिकमते पश्य मृगो धावतीत्यादौ मृगकर्तृकं धावनं दृशिक्रियायाः कर्म, प्रधानं दृशिक्रियैव । तथा च मृगकर्तृकधावनकर्मकं प्रेरणाविषयीभूतं त्वत्कर्तृकं दर्शनमिति बोधः । तत्र मृगो धावतीत्यत्र विशेष्यभूतधावनरूपार्थवाचकस्य धावतीत्यस्य प्रातिपदिकत्वाभावान्न द्वितीया । कर्मत्वन्तु संसर्गमर्यादया भासते । एवं पचति भवतीत्यत्र पचिक्रियाकर्तृका सत्तेति बोधः । पच्यादयः क्रिया भवतिक्रियायाः कर्त्र्यो भवन्तीति भूवादिसूत्रस्थभाष्यात् । उक्तञ्च हरिणा —

सुबन्तं हि यथानेकन्तिङन्तस्य विशेषणम् ।

तथा तिङन्तमप्याहुस्तिङन्तस्य विशेषणम् ॥इति॥

तार्किकमते तु अन्यदेशसंयोगानुकूलकृतिमन्मुगकर्मकं प्रेरणाविषयीभूतं यद्दर्शनं तदनुकूलकृतिमांस्तवमिति बोधः; तन्न । विशेष्यभूतार्थवाचकमृगशब्दस्य प्रातिपदिकत्वात् दृशिक्रियाकर्मत्वाच्च द्वितीयापत्तौ धावन्तं मृगं पश्येतिवत् पश्य मृगं धावतीत्यापत्तेः । किञ्चाप्रथमासमानाधिकरणे शतृशानचोर्नित्यत्वादेवंप्रयोगविलयापत्तेश्च ।

ननु विशिष्टार्थवाचकस्य धावति मृग इति वाक्यस्य कर्मत्वेऽपि पृथग् मृग इत्यस्य प्रातिपदिकस्य कर्मत्वाभावान्न द्वितीयेति चेन्न । 'अनभिहिते' इत्यधिकारसूत्रप्रघट्टके अभिधानञ्च

तिङ्कृत्तद्धितसमासैरित्येतत्परिगणनप्रत्याख्यानपरभाष्यरीत्या द्वितीयापत्तेः ।

तथाहि — कटं भीष्मं कुर्वितयादौ विशेष्यकटशब्दादुत्पन्नद्वितीयया कर्मत्वस्योक्तत्वात् विशेषणीभूतभीष्मशब्दाद् द्वतीया न स्यादतः परिगणनं भाष्ये कृतम् । तत्प्रत्याख्यानश्च सर्वकाराणां साक्षात्स्वाश्रयद्वारा वा अरुणाधिकरणन्यायेन भावनान्वयस्वीकारात् । अत एवोक्तं भाष्ये — कटोऽपि कर्म भीष्मादयोऽपीति, तत्र कटनिष्ठकर्मत्वोक्तावपि भिष्मत्वादिगुणविशिष्टकर्मत्वानुक्तेस्तस्माद्वितीयेति तात्पर्यम् । उभयोः पश्चात्परस्परमन्वयस्तु विशेष्यविशेषेणभावेन । अयमेवान्वयः पार्ष्णिक इत्युच्यते । एवमेवान्वयोऽरुणाधिकरणे 'अरुणया पिङ्गाक्ष्यैकहायन्या गवा सोमं क्रीणाति' इत्यत्र क्रयणक्रियायां मीमांसकैस्स्वीकृतस्तस्माद्धावति मृग इत्यत्र उभयोः कर्मत्वे धावतीत्यस्य प्रातिपदिकत्वाभावाद् विशेषणत्वेनान्यत्र निराकाङ्क्षत्वाच्च द्वितीयोत्पत्त्यभावेऽपि मृगशब्दात् द्वितीया दुर्वारैवेत्यवेहि । शाब्दिकमते तु क्रियाविशेषणत्वेनेतरार्थे निराकाङ्क्षत्वान्मृगशब्दान्न द्वितीया । तार्किकमते तु विशेष्यार्थवाचकात् मृगशब्दात् राज्ञः पुरुषमानयेतिवद् द्वितीया दुर्वारेत्यलमितिविस्तरेण ।