(वृत्तेर्द्वैविध्यम्)
वृत्तिर्द्विधा । जहत्स्वर्थाऽजहत्स्वार्था च । अवयवार्थनिरपेक्षत्वे सति समुदायार्थबोधाकात्वं जहत्स्वार्थात्वम । अवयावार्थसंविलितसमुदायार्थबोधिकात्वमजहत्वस्वार्थात्वम् । रथन्तरं सामभेदः । शुश्रूषा सेवा इति पूर्वस्या उदाहरणम् । राजपुरुष इत्यादावन्त्या ।
(समासादिषु विशिष्टे एव शक्तिः)
समासादिपञ्चषु विशिष्टे एव शक्तिर्न त्ववयवे रथन्तरम्, सप्तपर्णः, शुश्रूषेत्यादौ अवयवार्थानुभवाभावात् । अत एव भाष्ये व्यपेक्षापक्षमुद्भाव्य 'अथैतस्मिन्व्यपेक्षायां सामर्थ्ये योऽसावेकार्थीभावकृतो विशेषः स वक्तव्य' इत्युक्तम् । धवखदिरौ, निष्कौशाम्बिः, गोरथो, घृतघटो, गुडधानाः, केशचूडः, सुवर्णालङ्कारा, द्विदशाः, सप्तपर्ण इत्यादौ साहित्य-क्रान्त-युक्त-पूर्ण-मिश्र-सङ्घात-विकार-सुच्प्रत्ययलोप-वीप्साद्यर्था वाचनिका एव वाच्या इति तद्भाष्याशयः ।
(व्यपेक्षावादिमतनिरूपणम्)
यत्तु व्यपेक्षावादिनो नैयायिकमीमांसकादयः – न समासे शक्तिः । राजपुरुष इत्यादौ राजपदादेः सम्बन्धिनि लक्षणयैव राजसम्बन्धभिन्नः पुरुष इति बोधात् । अत एव राज्ञः पदार्थैकदेशत्वान्न तत्र ऋद्धस्येत्यादिविशेषणान्वयः । 'पदार्थः पदार्थेनान्वेति न तु पदार्थैकदेशेन' इत्युक्तेः । 'सविशेषणानां वृत्तिर्न वृत्तस्य च विशेषणयोगो न' इत्युक्तेश्च । न वा घनश्यामो, निष्कौशाम्बिः, गोरथ इत्यादाविवादिप्रयोगात्पत्तिः । लक्षणैवोक्तार्थतया 'उक्तार्थानामप्रयोग' इति न्यायेन इवादीनामप्रयोगात् ।
नापि 'विभाषा' इति सूत्रमावश्यकम्, लक्षणया राजसम्बन्ध्यभिन्न इति बुबोधयिषायां समासस्य, राजसम्बन्धवानिति बुबोधयिषायां विग्रहस्य च प्रयोग नियमसम्भवात् ।
नापि शक्तिः, पङ्कजशब्दवदिति पङ्कजशब्दप्रतिद्वन्द्विता शक्तिसाधिका तत्रावयवशक्तिमजानतोऽपि ततो बोधात् ।
न च शक्त्यग्रहे लक्षणया तस्माद् विशिष्टार्थप्रत्ययः सम्भवति । अत एव राजपदादिशक्त्यग्रहे राजपुरुष इत्यादिषु न बोधः ।
न च चित्रगुरित्यादौ लक्षणासम्भवेऽप्यषष्ठ्यर्थबहुव्रीहौ लक्षणाया असम्भवः, बहुव्युत्पत्तिभञ्जनापत्तेरिति वाच्यम् । प्राप्तोदक इत्यादौ उदकपदे एव लक्षणास्वीकारात् । पूर्वपदस्य योगिकत्वेन तत्र लक्षणाया धातुप्रत्ययतदर्थज्ञानसाध्यतया विलम्बितत्वात् । प्रत्ययानां सन्निहितपदार्थगतस्वार्थबोधकत्वव्युत्पत्त्यनुरोधाच्च । घटादिपदे चातिरिक्ता शक्तिः कल्प्यमाना प्रत्येकं वर्णेषु बोधकत्वेऽपि विशिष्टे कल्प्यते, विशिष्टस्यैव सङ्केतितत्वात् । प्रकृते चात्यन्तसन्निधानेन प्रत्ययान्वयसौलभ्यायोत्तरपदे एव लक्षणा कल्प्यत इति विशेषः । स्वीकृतं च घटादिपदेष्वपि चरमवर्णस्यैव वाचकत्वं मीमांसकम्मन्यैरित्याहुः ।
(व्यपेक्षावादिमतखण्डनम्)
अत्रोच्यते – समासे शक्त्यस्वीकारे विशिष्टस्यार्थवत्त्वाभावेन प्रातिपदिकत्वं न स्यात् । अत एवार्थवत्सूत्रे भाष्ये 'अर्थवदिति किम्, अर्थवतां समुदायोऽनर्थकः दश दाडिमानि षडपूपाः कुण्डमजाजिनम्' इति प्रत्युदाहृतम् । एवं च राजपुरुषपदयोस्त्वन्मते प्रत्येकमर्थवत्त्वेऽपि समुदायस्य दश दाडिमादिवदनर्थकत्वात्प्रातिपदिकत्वानापत्तेः । न च 'कृतद्धित' इति सूत्रे समासग्रहणात् तत्संज्ञेति वाच्यम् । तस्य नियमार्थताया भाष्यकृतैव प्रतिपादितत्वात् । अन्यथासिद्धिं विना नियमायोगात् । अत एव राज्ञः पुरुषः देवदत्तः पचतीत्यादिवाक्यस्य मूलकेनोपदंशमितयादेश्च न प्रातिपदिकत्वम् ।
किञ्च समासे शक्त्यस्वीकारे शक्यसमबन्धरूपलक्षणाया अप्यसम्भवेन लाक्षणिकार्थवत्त्वस्याप्यसम्भवेन सर्वथा प्रातिपदिकत्वाभाव एव निश्चितः स्यादिति स्वाद्यनुपत्तौ 'अपदं न प्रयुञ्जीत' इति भाष्यात् समस्तप्रयोगविलयापत्तेः ।
अथ तिप्तस्झीत्यतः तीत्यारभ्य ङ्योः सुबिति पकारेण तिप्प्रत्याहारो भाष्यसिद्धः । तत्पर्युदासेन 'अतिप्प्रातिपदिकम्' इत्येव सूत्र्यताम्, ततः 'समासश्च' इति सूत्रं नियमार्थमस्तु किं सूत्रद्वयनेति । सुप्तङन्तभिन्नं प्रातिपदिकमित्यर्थात् समासस्यापि सा स्यादिति समासश्चेत्यस्य नियमार्थत्वं सुलभमिति चेत्सत्यम् । प्रत्येकं वर्णेषु संज्ञावारणायार्थवदित्यस्यावश्यकत्वेन समासेऽतिव्याप्तिस्तदवस्थैव । तथा च प्रातिपदिकसंज्ञारूपकार्यमेवार्थवत्त्वमनुमापयति । समासोऽर्थवान्, प्रातिपदिकत्वात्, यन्नार्थवत् तन्न प्रातिपदिकम्, अभेदविवक्षापक्षे भू सत्तायामित्याद्यनुकरणवदिति ।
यत्तु 'पदार्थः पदार्थेन' इति 'वृत्तस्य विशेषणयोगो न' इति वचनद्वयेन ऋद्धस्येत्यादिविशेषेणान्वयो न भवति, तत्तुसमासे एकार्थीभावे स्वीकृतेऽवयवानां निरर्थकत्वेन विशेषणान्वयासम्भवात् फलितार्थपरसमस्माकम् युष्माकं तु अपूर्ववाचनिकमिति गौरवमित्यग्रे वक्ष्यते ।
यत्तु प्रत्ययानां सन्निहितपदृथगतस्वार्थबोधकत्वव्युत्पत्तिरिति, तन्न । उपकुम्भम्, अर्द्धपिप्पलीत्यादौ पूर्वपदार्थे विभक्त्यर्थान्वयेन व्यभिचारात् ।
मम तु प्रत्ययानां प्रकृत्यर्थान्वितस्वार्थबोधत्वव्युत्पत्तेर्विशिष्टोत्तरमेव प्रत्ययोत्पत्तेर्विशिष्टस्यैव प्रकतित्वात् विशिष्टस्यैवार्थवत्त्वाच्च न दोषः ।
किं च राजपुरुषादौ राजपदादेः सम्बन्धिनि सम्बन्धे वा लक्षणा । नाद्यः; राज्ञः पुरप इति विवरणविरोधात् । वृत्तिसमानार्थविक्यस्यैव विग्रहत्वात् । अन्यथातस्माच्छक्तिनिर्णयो न स्यात् । नान्त्यः; राजसम्बन्धरूपपुरुष इत्यनन्वयप्रसङ्गात् ।
(आख्यातं तद्धितकृतोरितिकारिकाव्याख्यानम्)
ननु तर्हि वैयाकरण इत्यस्य व्याकरणमधीते इति, पाचक इत्यस्य पचतीति कथं विग्रहः, वृत्तिसमानर्थत्वाभावादित्याह आह-
आख्यातं तद्धितकृतोर्यत्किञ्चिदुपकर्शकम् ।
गुणप्रधानभावादौ तत्र दृष्टो विपर्ययः ॥इति॥
तद्धितकृतोर्यत्किञ्चिदर्थबोधकं विवरणमाख्यातं तिङन्तमिति यावत्, तत्र विवरणविव्रियमाणयोर्विशेष्यविशेषणभावविपर्ययो दृष्ट इति । कृदन्ततद्धितान्तयोराश्रयप्राधान्यम्, आख्याते च व्यापारस्येति बोध्यम् ।
ननु रथन्तरशब्दाद्रथिकस्यापि प्रत्ययः किन्न स्यादिति चेन्मैवम् । 'रूढिर्योगार्थमपहरति' इति न्यायात् ।
ननु विशिष्टशक्तस्वीकारे पङ्कजपदादवयवार्थप्रतीतिर्मा भूत् समुदायशक्त्यैव कमलपदवत्पुष्पविशेषप्रत्ययः स्यादिति चेन्न-
जहत्स्वार्था तु तत्रैव यत्र रूढिर्विरोधिनी ।
इत्यभियुक्तोक्तेः अवयवार्थसंवलितसमुदायार्थे पद्ये शक्तिस्वीकारात् ।
अत एवचतुर्विधः शब्दः । यथा- रूढ, योगरूढः, यौगिकः, यौगिरूढश्चेति । अवयवार्थमनपेक्ष्य समुदायशक्तिमात्रेणार्थबोधत्वं रूढत्वम्, रथन्तरमित्यादौ । अवयवार्थसंवलितसमुदायशक्त्याऽर्थबोधकत्वं योगरूढत्वम्, पङ्कजमित्यत्र । अवयवशक्त्यैवार्थबोधत्वं यौगिकत्वं, पाचिका पाठिकेत्यादौ । अवयवशक्त्या समुदायशक्त्या चार्थबोधकत्वं यौगिकरूढत्वम्, मण्डपानकर्तृपरोऽपि गृहविशेषपरोऽपि मण्डपशब्द उदाहरणमिति विवेकः ।
(व्यपेक्षावादे दूषणम्)
व्यपेक्षापक्षे दूषणं शक्तिसाधकम् । हरिरप्याह-
समासे खलु भिन्नैव शक्तिः पङ्कजशब्दवत् ।
बहूनां वृत्तिधर्माणां वचनैरेव साधने ॥
स्यान्महद्गौरवं तस्मादेकार्थीभाव आश्रितः ॥इति॥
पङ्कजशब्दे योगार्थस्वीकारे शैवालादेरपि प्रत्ययः स्यात् । वृत्तिधर्माः- विशेषणलिङ्गसङ्ख्याद्ययोगादयः, 'सविशेषाणानां वृत्तिर्न' इत्यादिवचनैरेव साध्याः, इति तत्द्वचनस्वीकार एव गौरवम् । मम तु एकार्थीभावस्वीकारात् अवयवार्थाभावाद्विशेषणाद्योगो न्यायसिद्धः, वचनं च न कर्त्तव्यं न्यायसिद्धं चेति लाघवम् ।
व्यपाक्षायां दूषणान्तरमाह-
चकारादिनिषेधोऽथ बहुव्युत्पत्तिभञ्जनम् ।
कर्त्तव्यन्ते न्यायसिद्धं त्वस्माकन्तदिति स्थितिः ॥
घटपटाविति द्वन्द्वे साहित्यद्योतकचकारनिषेधस्त्वया कर्त्तव्यः । आदिना घनश्याम इत्यादौ इवशब्दस्य । मम तु साहित्याद्यवच्छिन्ने शक्तस्वीकाराद् 'उक्तार्थानामप्रयोग' इति न्यायात्तेषामप्रयोगः । बहुव्युत्पत्तिभञ्जनमिति । अषष्ठ्यर्थबहुव्रीहौ प्राप्तोदक इत्यादौ पृथक् शक्तिवादीनां मते प्राप्तिकर्त्रभिन्नमुदकमित्यादिबोधोत्तरं तत्सम्बन्धिग्रामलक्षणायामपि उदककर्तृकप्राप्तिकर्म ग्राम इत्यर्थालाभे प्राप्ते प्राप्तेति क्तप्रत्ययस्य कर्त्रर्थकस्य कर्मार्थे लक्षणा, ततोऽपि समानविभक्तिकनामार्थयोरभेद एव संसर्ग इति व्युत्पत्त्या उदकाभिन्नं प्राप्तिकर्मेति स्यात् । उदकस्य कर्तृतया प्राप्तावन्वये तु नामार्थयोरभेदान्वयव्युत्पत्तिभञ्जनं स्यादिति तात्पर्यम् । 'नामार्थप्रकारकशाब्दबुद्धित्वावच्छिन्नं प्रति विभक्त्यर्थोपस्थितेः कारणत्वात्' इति व्युत्पत्तिभञ्चनं च । मम तु पृथक्शक्त्यनङ्गीकारात् विशिष्टस्यैव विशिष्टार्थवाचकत्वात् नामार्थद्वयाभावात् न क्वचिदनुपपत्तिरित्यलम् ॥
श्रीशिवभट्टसुतसतीदेवीगर्भजनागेशभट्टकृता परमलघुमञ्जूषा समाप्ता ॥