Logo SanskritVani

स्फोटविचारः

 

वृत्त्याश्रयश्शब्दः)

 

ननु कोऽयं वृत्त्याश्रयश्शब्दः । वर्णाः प्रत्येकमिति चेत्, न । द्वितीयादिवर्णोच्चारणवैयर्थ्यापत्तेः । नापि वर्णसङ्घातः । उच्चारितप्रध्वंसित्वेन यौगपद्यासम्भवात् । अभिव्यक्तेरुत्पत्तेर्वा क्षणस्थायित्वात्क्षणात्मककालस्य प्रत्यक्षायोग्यत्वेन तदवच्छिन्नवर्णस्याप्यप्रत्यक्षत्वात् ।

उच्चारणाधिकरणकालोत्तरकालवृत्तिध्वंसप्रतियोगित्वमुच्चरितप्रध्वंसित्वम् । इको यणचीत्यादौ तस्मिन्निति परिभाषोपस्कृतवाक्यार्थेऽयं पूर्वोऽयं पर इति नष्टस्य प्रत्यक्षविषयेदंशब्देन पौर्वापर्यव्यवहारायोगाच्च ।

( तार्किकमतम्)

 

यत्तु तार्किकाः वर्णानामनित्यत्वेऽपि उत्तरोत्तरवर्णे पूर्वपूर्ववर्णवत्त्वमव्यवहितोत्तरत्वसम्बन्धेन संस्कारवशाद् गृह्यत इति पदप्रत्यक्षत्वाच्छाब्दबोधः ।

यद्वा पूर्वपूर्ववर्णजाः शब्दाः शब्दजशब्दन्यायेन चरमवर्णप्रत्यक्षपर्यन्तं जायमाना एव सन्ति इति न पदप्रत्यक्षानुपपत्तिः । यद्वा पूर्वपूर्ववर्णानुभवजन्यसंस्कारसध्रीचीनचरमवर्णानुभवतः शाब्दबोध इत्याहुः ।

(तार्किकमतपरिष्कारः)

 

तन्न, आद्येऽयंपूर्वोऽयं पर इत्यभिलापासम्भवेनाऽव्यवहितोत्तरत्वसम्बन्धायोगात् । नष्टविद्यमानयोरव्यवहितोत्तरत्वसम्बन्धस्य वक्तुमशक्यत्वाच्च । द्वितीये शब्दजशब्दन्यायेन पदप्रत्यक्षोपपादनेऽपि पदस्याविद्यमानत्वेन तत्र शक्त्याश्रयत्वस्य ग्रहानुपपत्तेः । अविद्यमाने आश्रयत्वाङ्गीकारे नष्टो घटो जलवानित्याद्यापत्तेश्च । तृतीये येन क्रमेणानुभवस्तेनैव क्रमेण तत्संस्कारस्थितिरित्यत्र विनिगमकाभावात् सरो रसो नदी दीन इत्यादौ कदाचित् विपरीतसंस्कारोद्बोधेन प्रत्येकमन्यार्थप्रत्ययापत्तेः । उत्पत्तिविनाशवद्वर्णसमुदायरूपपदस्य मनुष्यादिवद्भेदे एक इन्द्रशब्दः क्रतुशते प्रादुर्भूतो युगपत्सर्वयागेष्वङ्गं भवतीति भाष्यविरोधापत्तेश्च । प्रादुर्भूतोऽभिव्यक्तः ।

ननु कस्तर्हि वृत्त्याश्रयश्शब्दः । स स्फोटात्मक इति गृहाण ।

(स्फोटस्य वृत्याश्रयत्वं वाचश्चतुर्विधत्वञ्च)

 

ननु कोऽयं स्फोटः ? उच्यते — चतुर्विधा हि वागस्ति । परा पश्यन्ती मध्यमा वैखरी च । तत्र मूलाधारस्थपवनसंस्कारीभूता मूलाधारस्था शब्दब्रह्मरूपा स्पन्दशून्या बिन्दुरूपिणी परा वागुच्यते । नाभिपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता मनोगोचरीभूता पश्यन्ती वागुच्यते । एतद्द्वयं वाग्ब्रह्मयोगिनां समाधौ निर्विकल्पकसविकल्पकज्ञानविषय इत्युच्यते । ततो हृदयपर्यन्तमागच्छता तेन वायुनाऽभिव्यक्ता तत्तदर्थवाचकशब्दस्फोटरूपा श्रोत्रग्रहणायोग्यत्वेन सूक्ष्मा जपादौ बुद्धिनिर्ग्राह्या मध्यमावागुच्यते । ततः आस्यपर्यन्तमागच्छता तेन वायुनोर्ध्वमाक्रामता च मूर्धानमाहत्यपरावृत्य च तत्तत्स्थानेष्वभिव्यक्ता परश्रोत्रेणापि ग्राह्या वैखरी वागुच्यते । तदाह —

परा वाङ्मूलचक्रस्था पश्यन्ती नाभिसंस्थिता ।

हृदिस्था मध्यमा ज्ञेया वैखरी कण्ठदेशगा ॥

वैखर्या हि कृतो नादः परश्रवणगोचरः ।

मध्यमया कृतो नादः स्फोटव्यञ्जक उच्यते ॥इति॥

(मध्यमानादव्यङ्ग्यशब्दस्य स्फोटत्वम्)

 

युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते । तत्र मध्यमानादोऽर्थवाचकः स्फोटात्मकशब्दव्यञ्जकः । वैखरीनादो ध्वनिः सकलजनश्रोत्रमात्रग्राह्यो भेर्यादिनादवन्निरर्थकः । मध्यमानादश्च सूक्ष्मतरः । कर्णपिधाने च जपादौ च सूक्ष्मतरवायुव्यङ्ग्यः शब्दब्रह्मरूपः स्फोटव्यञ्जकश्च । तादृशमध्यमानादव्यङ्ग्यः शब्दः स्फोटात्मकः ब्रह्मरूपो नित्यश्च । तदाह हरिः —

अनादिनिधनं ब्रह्म शब्दतत्त्वं यदक्षरम् ।

विवर्ततेऽर्थभावेन प्रक्रिया जगतो यतः ॥इति॥

(एकस्याखण्डस्यापि स्फोटस्यौपाधिको भेदः)

 

। स च यद्यप्येकोऽखण्डश्च तथापि पदं वाक्यं जपाकुसुमादिलौहित्यपीतत्वादिव्यञ्जकोपरागवशात् लोहितः पीतः स्फटिक इति भानवद् वर्णादिव्यङ्ग्यः वर्णरूपः पदरूपो वाक्यरूपश्च । यथा च मुखे मणिकृपाणदर्पणव्यञ्जकोपाधिवशाद्दैर्घ्यवर्तुलत्वादि भानं तद्वत् । तदुक्तम् —

पदे न वर्णा विद्यन्ते वर्णेष्ववयवा न च ।

वाक्यात्पदानामत्यन्तं प्रविवेको न कश्चन ॥इति॥

किञ्च व्यञ्जकध्वनिगतं कत्वगत्वादिकं स्फोटे भासते । बिम्बगतधर्मवैशिष्ट्येनैव प्रतिबिम्बस्य लोकेऽवधारणाद् व्यञ्जकरूपरूषितस्यैव स्फटिकादेर्भानाच्च । यथा चैकस्याकाशस्य घटाकाशो महाकाश इत्यौपाधिको भेदः । यथा चैकस्यैव चेतनस्यौपाधिको जीवेश्वरभेदो जीवानां च परस्परं भेदः । एवं स्फोटे व्यञ्जकध्वनिगतकत्वादिभानात्ककारो बुद्ध इत्यौपाधिको भेदव्यवहारः ।

औपाधिको भेद इत्यत्रोपाधिः घटकत्वादिर्भिन्न उपाधेयस्तु आकाशस्फोटादिरेक एवेति तात्पर्यम् । पदवाक्ययोस्सखण्डत्वपक्षे त्वन्तिमवर्णव्यङ्ग्यः स्फोट एक एव । पूर्वपूर्ववर्णस्तु तात्पर्यग्राहकः । न्यायनये चित्रगुरित्यादौ चित्रादिपदवत् ।

(ध्वनेर्द्वैविध्यम्)

 

ध्वनिस्तु द्विविधः — प्राकृतो वैकृतश्च । प्रकृत्यार्थबोधनेच्छया स्वभावेन वा जातः स्फोटव्यञ्जकः प्रथमः प्राकृतः । तस्मात्प्राकृताज्जातो विकृतिविशिष्टश्चिरस्थायी निर्वर्तको वैकृतिकः । हरिरप्याह —

स्फोटस्य ग्रहणे हेतुः प्राकृतो ध्वनिरिष्यते ।

शब्दस्योर्ध्वमभिव्यक्तेर्वृत्तिभेदे तु वैकृताः ॥

ध्वनयः समुपोहन्ते स्फोटात्मा तैर्न भिद्यते ॥इति॥

शब्दस्याभिव्यक्तेरूर्ध्वं वैकृता ध्वनयो जायन्त इति शेषः । वृत्तिभेद इति ।

अभ्यासार्थे द्रुता वृत्तिर्मध्या वै चिन्तने स्मृता ।

शिष्याणामुपदेशार्थे वृत्तिरिष्टा विलम्बिता॥

तिसृषु वृत्तिषु समुपोहन्ते कारणानि भवन्ति स्फोटस्तु तैर्न भिद्यते इत्यर्थः ।

(स्फोटाभिव्यक्तिनिरूपणम्)

 

अत्रेदं बोध्यम् — केनचित् घटमानयेति वैखरीनादः प्रयुक्तः, स केनचिच्छ्रोत्रेन्द्रियेण गृहीतः, स नाद इन्द्रियद्वारा बुद्धिहृद्गतस्सन्नर्थबोधकं शब्दं स्वनिष्ठकत्वादिना व्यञ्जयति तस्मादर्थबोधः । स्फुटत्यर्थोऽस्मादिति व्युत्पत्त्या स्फोटः । उच्चारयितुस्तु युगपदेव मध्यमावैखरीभ्यां नाद उत्पद्यते । तत्र वैखरीनादो वह्नेः फूत्कारादिवन्मध्यमानादोत्साहकः, मध्यमानादः स्फोटं व्यञ्जयतीति शीघ्रमेव ततोऽर्थबोधः, परस्य विलम्बेनाऽनुभवसिद्धत्वात् । अत एव श्रोत्रोपलब्धिर्बुद्धिनिर्ग्राह्यः प्रयोगेणाऽभिज्वलित आकाशदेशः शब्द इत्याकरग्रन्थस्सङ्गच्छते । कत्वादिना श्रोत्रोपलब्धित्वं स्फोटात्मकपदादिरूपेण तु बुद्धिनिर्ग्राह्यत्वम् । स च प्रयोगेण वैखरीरूपेणाभिज्वलितः स्वरूपरूषितः कृत इति तदर्थः । तत्रापि शक्यत्वस्येव शक्ततावच्छेदिकाया वर्णपदवाक्यनिष्ठजातेर्वाचकत्वम् । तदुक्तम् —

(जातेः स्फोटत्वम्)

 

अनेकव्यक्त्यभिव्यङ्ग्या जातिः स्फोट इति स्मृता । इति ।

(स्फोटवादपरिष्कारः)

 

तस्मादष्टविधस्फोटात्मकश्शब्दो वृत्त्याश्रयः । वस्तुतः वाक्यस्फोटो वाक्यजातिस्फोट एव वा वृत्त्याश्रयः । तत एव लोकेऽर्थबोध इत्याद्युक्तत्वादिति सर्वं सुस्थम् ।