Logo SanskritVani

नामार्थविचारः

(जातिशक्तिवादिमीमांसकमतोपन्यासः)

 

अत्र मीमांसकाः – शब्दानां जातौ शक्तिर्लाघवात् । व्यक्तीनामानन्त्येन तत्र शक्तौ गौरवात् । 'नागृहीतविशेषणा बुद्धिर्विशेष्ये उपजायते' इति न्यायास्य विशेषणे शक्तिर्विशेष्ये लक्षणेति तात्पर्यात् । किञ्च एकस्यां व्यक्तौ शक्त्युपदेशे व्यक्त्यन्तरे तदभावेन तद्बोधाप्रसङ्गात् । गामानयेत्यादावन्वयानुपपत्त्या तदाश्रयलक्षकत्वेन निर्वाहश्चेत्याहुः ।

(मीमांसकमतखण्डनम्)

 

तन्न; गोत्वमस्तीत्यर्थेऽन्वयानुपपत्त्यभावेन गौरस्तीति प्रयोगे व्यक्तिभानानापत्तेः । व्यक्तीनामानन्त्येऽपि शक्यतावच्छेदकजातेरूपलक्षणत्वेन तदैक्येन च तादृशजात्युपलक्षितव्यक्तौ शक्तिस्वीकारेणानन्तशक्तिकल्पनाविरहेणागौरवात् । लक्ष्यतावच्छेदकतीरत्वादिवत् शक्यतावच्छेदकस्यावच्यत्वे दोषाभावात् । नागृहीतेति न्यायस्य विशेषणविशिष्टविशेष्यबोधे तात्पर्येऽपि त्वदुक्ततात्पर्ये मानाभावात् । जातेरुपलक्षकत्वेन तदाश्रयसकलव्यक्तिबोधेन व्यक्त्यन्तरबोधाप्रसङ्गभङ्गाच्च । तदाह-

आनन्त्येऽपि हि भावानामेकं कृत्वोपलक्षणम् ।

शब्दः सुकरसम्बन्धो न च व्यभिचरिष्यति ॥इति॥

(व्यक्तावपि शक्तिसमर्थनम्)

 

युक्तं ह्योतत् ।

शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्याद् व्यवहारतश्च ।

वाक्यस्य शोषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥

इत्येतेषु शक्तिग्राहकशिरोमणिर्व्यवहारो व्यक्तावेव शक्तिं ग्राहयति गवादिपदेन लोके व्यक्तेरेव बोधात् ।

वस्तुतस्तु 'न ह्याकृतिपदार्थकस्य द्रव्यं न पदार्थः' इति सरूपसूत्रभाष्याद्विशिष्टमेव वाच्यं तथैवानुभवात् । अनुभवसिद्धस्यापलापानर्हत्वाच्च ।

(लिङ्गस्य नामार्थत्वम्)

 

लिङ्गमपि नामार्थः । प्रत्ययानां द्योतकत्वात् । अन्यथा वागुपानदादिशब्देभ्य इयं तव वागिति स्त्रीत्वबोधानापत्तेः । अयमिति व्यवहारविषयत्वं पुंस्त्वम्, इयमिति व्यवहारविषयत्वं स्त्रीत्वं, इदमिति व्यवहारविषयत्वं क्लीबत्वमिति विलक्षणं शास्त्रीयं स्त्रीपुन्नपुंसकत्वम् । अत एव खट्वादिशब्दवाच्यस्य स्तनकेशभगादिमत्त्वरूपलौकिकस्त्रीत्वाभावेऽपि तद्वाचकाट्टाबादिप्रत्ययः ।

(सङ्ख्यायाः नामार्थत्वम्)

 

सङ्ख्याऽपि नामार्थः । विभक्तीनां द्योतकत्वात् । अत एव 'आदिर्ञिटुडव' इति सूत्रे आदिरिति बहुत्वे एकवचनम् । वाच्यत्वेऽन्वयव्यतिरेकाभ्यां जसं विना नामार्थबहुत्वप्रतीत्यभावापत्तेः ।

(पञ्चकं प्रातिपदिकार्थः)

 

कारकं प्रातिपदिकार्थः इति पञ्चकं प्रातिपदिकार्थः । नन्वन्वयव्यतिरेकाभ्यां प्रत्ययस्यैव तद्वाच्यमिति चेन्न । दधि तिष्ठति, दधि पश्येत्यादौ कर्त्रादिकारकप्रतीतेः प्रत्ययं विनापि सिद्धत्वात् । न च लुप्तप्रत्ययस्मरणात्तत्प्रतीतिरिति वाच्यम् । प्रत्ययलोपमजानातोऽपि नामत एव तत्प्रतीतेः ।

 

(शाब्दबोधे शब्दभानस्य समर्थनम्)

 

विशेषणतया शब्दोऽपि शाब्दबोधे भासते । युधिष्ठिर आसीदित्यादौ युधिष्ठिरशब्दवाच्यः कश्चिदासीदिति बोधात् ।

न सोऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते ।

अनुविद्धमिव ज्ञानं सर्वं शब्देन भासते ॥इत्यभियुक्तोक्तेः॥

ग्राह्यत्वं ग्राहकत्वं च द्वे शक्ती तेजसो यथा ।

तथैव सर्वशब्दानामेते पृथगवस्थिते ॥

विषयत्वमनादृत्य शब्दैर्नाथः प्रकाश्यते ॥इति वाक्यपदीयाच्च॥

(अनुकार्यानुकरणीयोर्भेदाभेदपक्षौ)

 

अत एव विष्णुमुच्चारयेत्यादावर्थोच्चारणासम्भवाच्छब्दप्रतीतिः । अत एवानुकरणेनानुकार्यस्वरूपप्रतीतिः । तथाहि- स्वसदृशशब्दमात्रबोधतात्पर्यकोच्चारणविषयत्वमनुकरण्त्वम् । स्वसदृशशब्दप्रतिपाद्यत्वे सति शब्दत्वमनुकार्यत्वम् । तत्रानुकार्यादनुकरणं भिद्यत इति तयोर्भेदविवक्षायामनुकार्यस्वरूपप्रतिपादकत्वेनार्थवत्त्वात् प्रातिपादिकात्वात्स्वादिविधिः । भेदपक्षज्ञापकः 'भुवो वुग्लुङ्लिटो' रित्यादिनिर्देशः । अनुकार्यादनुकरणमभिन्नमित्यभेदविवक्षायां चार्थवत्त्वाभावान्न प्रातिपदिकत्वं न वा पदत्वम् । अभेदपक्षज्ञापकस्तु भू सत्तायामित्यादिनिर्देशः । प्रातिपदिकत्वपदत्वाभावेऽपि भू इत्यादि साधु भवत्येव ।

ननु 'अपदं न प्रयुञ्चीत' इति भाष्यादसाध्विदमिति चेन्न । अपदमित्यस्य हि अपरिनिष्ठितमित्यर्थः । परिनिष्ठतत्वं च अप्रवृत्तनित्यविध्युद्देश्यता-वच्छेदकानाक्रान्तत्वं देवदत्तो भवतीत्यादौ 'तिङ्ङतिङः' इति निघाते जातेऽतिङन्तपदपरतिङन्तत्वरूपोद्देश्यतावच्छेदकसत्त्वे अपरिनिष्ठितत्ववारणाय अप्रवृत्तेति । स्वरतीत्यादि विकल्पसूत्रस्य पाक्षिकप्रवृत्तौ सेद्धेत्यादावसाधुत्ववारणाय नित्यविधीति । अभेदपक्षे तु 'अर्थवद्' इति सूत्रस्यार्थवत्त्वरूपोद्देश्यतावच्छेदकानाक्रान्तत्वात् सूत्राप्रवृत्तावपि भू इत्यादिपरिनिष्ठितम्, परिनिष्ठितसाधुशब्दौ पर्यायौ ।

नन्वनुकरणस्यानुकार्यस्वरूपबोधकत्वस्याभावेन कथमनुकार्यस्वरूपप्रतीतिरिति चेत् सादृश्याख्यासम्बन्धेनेति गृहाण । यथा मैत्रसदृशपिण्डदर्शने मैत्रस्मरणम् । एवं भू इत्याद्यनुकरणज्ञाने तादृशानुकार्यस्य ज्ञानमिति सङ्क्षेपः ।

॥इति नामार्थ निरूपणम्॥