योग्यता च परस्परान्वयप्रयोजकधर्मवत्वम् । तेन पयसा सिञ्चतीति वाक्यं योग्यं । अस्ति च सेकान्वयप्रयोजकद्रवद्रव्यत्वं योग्यता जले, करणत्वेन जलान्वयप्रयोजकार्द्रीकरणत्वं योग्यता सेकक्रियायाम् ।
अतएव वह्निना सिञ्चतीति वाक्यमयोग्यम् । वह्नेः सेकान्वयप्रयोजकद्रवद्रव्यत्वाभावात् ।
एतादृशस्थलेषु नान्वयबोधः किं तु प्रत्येकं पदार्थबोधमात्रमिति नैयायिकास्तन्न्, बौद्धार्थस्यैव सर्वत्र बोधविषयत्वेन बाधस्याभावात् । हरिरप्याह-
अत्यन्तासत्यपि स्वार्थे ज्ञानं शब्दः करोति च । इति ।
अतो वन्ध्यासुतादिशब्दानां प्रातिपदिकत्वम् ।
वह्निना सिञ्चतीत्यतो बोधाभावे तद्वाक्यप्रयोक्तारं प्रत्यद्रवेण वह्निना कथं सेकं ब्रवीषीत्युपहासानापत्तेश्च । वाक्यार्थबोधे जाते बुद्धार्थविषये प्रवृत्तिस्तु न भवति बुद्धार्थेऽप्रामाण्यग्रहादित्यन्यत्र विस्तरः ।